||Sundarakanda ||

|| Sarga 59||( Slokas in Devanagari )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुन्दरकाण्डम्
अथ एकोनषष्टितमस्सर्गः॥

एतदाख्याय तत्सर्वं हनुमान् मारुतात्मजः।
भूयः समुपचक्राम वचनं वक्तु मुत्तरम्॥1||

सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः।
शीलमासाद्य सीताया मम च प्रवणं मनः॥2||

तपसा धारयेल्लोकान् क्रुद्धो वा निर्दहेदपि।
सर्वधाति प्रवृद्धोऽसौ रावणो राक्षसाधिपः॥3||

तस्य तां स्पृशतो गात्रं तपसा न विनाशितम्।
न तदग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती॥4||

जनकस्यात्मजा कुर्याद्यत्क्रोध कलुषीकृता।
जाम्बवत्प्रमुखान् सर्वाननुज्ञास्य महाहरीन्॥5||

अस्मिन्नेवं गते कार्ये भवतां च निवेदिते।
न्यायं स्म सहवैदेह्या द्रष्टुं तौ पार्थिवात्मजौ॥6||

अहमेकोपि पर्याप्तः सराक्षसगणां पुरी।
तां लंकां तरसा हन्तुं रावणं च महाबलम्॥7||

किं पुनस्सहितो वीरैः बलवद्भिः कृतात्मभिः।
कृतास्त्रैः प्लवगैः शूरैः भवद्भिर्विजयैषिभिः॥8||

अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम्।
सहपुत्त्रं वधिष्यामि सहोदरयुतं युधि॥9||

ब्राह्ममैन्द्रं च रौद्रं च वायुव्यं वारुणं तथा।
यदि शक्रजितोऽस्त्राणि दुर्निरीक्षाणि संयुगे॥10||

तान्यहं विधमिष्यामि हनिष्यामि च राक्षसान्।
भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धितम्॥11||

मयाsतुला विसृष्टा हि शैलवृष्टिर्निरन्तरा।
देवानपि रणे हन्यात् किं पुनः तान् निशाचरान्॥12||

सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि।
न जाम्बवन्तं समरे कम्पये दरिवाहिनी॥13||

सर्वराक्षस संघानां राक्षसा ये च पूर्वका।
अलमेको विनाशाय वीरो वालिसुतः कपिः॥14||

पनस स्योरुवेगेन नीलस्य च महात्मनः।
मन्दरोऽप्यवसीर्येत किं पुनर्युधि राक्षसाः॥15||

स देवासुर यक्षेषु गन्धर्वोरग पक्षिसु।
मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा॥16||

अश्विपुत्रौ महाभागौ वेतौ प्लवगसत्तमौ।
एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे ॥17||

पितामहवरोत्सेकात् परमं दर्पमास्थितौ।
अमृतप्राशना वेतौ सर्ववानर सत्तमौ॥18||

अश्विनोर्माननार्थं हि सर्वलोकपितामहः।
सर्वावध्यत्वमतुलं अनयोर्दत्तवान्पुरा॥19||

वरोत्सेकेन मत्तौ च प्रमथ्य महतीम् चमूम्।
सुराणाममृतं वीरौ पीतवन्तौ प्लवंगमौ॥20||

एतावेव हि संक्रुद्धौ सवाजिरथकुंजराम्।
लंकां नाशयितुं शक्ता सर्वे तिष्ठन्तु वानराः॥21||

मयैव निहता लंका दग्धा भस्मीकृता पुनः।
राजमार्गेषु सर्वत्र नाम विश्रावितं मया॥22||

जयत्यति बलो रामो लक्ष्मणस्य महाबलः।
राजा जयति सुग्रीवो राघवेणाधिपालितः॥23||

अहं कोसलराजस्य दासः पवनसम्भवः।
हनुमानिति सर्वत्र नाम विश्रावितं मया॥24||

अशोकवनिका मध्ये रावणस्य दुरात्मनः।
अधस्तात् शिंशुपावृक्षे साध्वी करुणमास्थिता॥25||

राक्षसीभि परिवृता शोकसन्तापकर्शिता।
मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा॥26||

अचिन्तयन्ती वैदेही रावणं बलदर्पितम्।
पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी॥27||

अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा।
अनन्यचित्ता रामे च पौलोमीव पुरन्दरे॥28||

तदेकवासः संवीता रजोध्वस्ता तथैव च।
शोकसन्ताप दीनांगी सीता भर्तृहिते रता॥29||

सा मया राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः।
राक्षसीभिर्विरूपाभिः दृष्टा हि प्रमदावने॥30||

एकवेणीधरा दीना भर्तृचिन्तापरायणा।
अथश्शया विवर्णांगी पद्मिनीव हिमागमे॥31||

रावणाद्विनिवृत्तार्था मर्तव्यकृत निश्चया।
कथंचिन् मृगशाबाक्षी विश्वास मुपपादिता॥32||

ततः संभाषिता चैव सर्वमर्थं च दर्शिता।
रामसुग्रीव सख्यं च श्रुत्वा प्रीतिमुपागता॥33||

नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा।
यन्नहन्ति दशग्रीवं स महात्मा कृतागसम्॥34||

निमित्तमात्रं रामस्तु वधे तस्य भविष्यति।
सा प्रकृत्यैव तन्वंगी तद्वियोगात् च कर्शिता॥35||

प्रतिपत्पाठशीलस्य विद्येव तनुतां गता।
एवमास्ते महाभागा सीता शोकपरायणा।
यदत्र प्रतिकर्तव्यं तत् सर्वं उपपद्यताम्॥36||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे एकोनषष्टितमस्सर्गः ॥

||ओम् तत् सत्॥